________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १३७३ (A)
तेषां ध्रुवकर्मिकप्रभृतीनां समक्षं गणयन् बद्ध्वा स्थापयति वाशब्दः स्थापनाविषयप्रकारान्तरसूचने, आगतश्च सन् द्वितीयमपि वारमवग्रहमनुज्ञापयति, कथम्? इत्याह- भो! इत्यामन्त्रणे, 'युष्माभी रक्षितान्यमूनि तेन युष्मदीयानीत्यनुजानीत मां गृह्णन्तमिति' ॥ ३४७७ ॥
दट्ठण वऽनहा गंठिं, केण मुक्को त्ति पुच्छती । रहियं किं घरं आसी, को परो व इहागतो? ॥ ३४७८ ॥
इह यदा तेषां समक्षमुपकरणं बद्ध्वा स्थापयति तदा साभिज्ञानं ग्रन्थिं बध्नाति ततः आगतः सन् तं प्रलोकयति मा केनाप्युन्मुच्य किञ्चित् हृतं स्यात्, तत्र यदि तथैव ग्रन्थिं | पश्यति ततः पूर्वोक्तप्रकारेण द्वितीयमवग्रहमनुज्ञापयति। अथ ग्रन्थिमन्यथा पश्यति ततो ब्रूते- 'केनाऽयं ग्रन्थिरुन्मुक्तश्छोटितः?' इति पृच्छति, तथा 'किमिति क्षेपे रहितं शून्यं गृहमासीत्? को वा अपर इह समागतः' इति ॥ ३४७८ ॥
नत्थि वत्थु सुगंभीरं, तं मे दावेह मा चिरा ।
न दिट्ठो वा कहं एंतो, तेणतो उवओ इहं ॥ ३४७९॥ १. उभयो-ला.॥
गाथा ३४७५-३४८१ एकाकिवृद्धस्य उपकरणस्थापनविधिः
१३७३ (A)
For Private and Personal Use Only