________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १३७३ (B)
ममोपकरणमध्ये यद्वस्तु सुगम्भीरमतिशोभनं तन्नास्ति तस्माद्दर्शय तद्वस्तु मा चिरकालीकुरु। अथ [स ब्रूते] न गृहीतं मया नापि कोप्यागच्छन् दृष्टः' तत आह- न दृष्टो वा कथमत्रागच्छन् स्तेनक उपयाति उत्परकः, अवश्यं स दृष्टः स्वयं वा गृहीतमिति भावः ॥ ३४७९ ॥
धम्मो कहिज तेसिं, धम्मट्ठा एव दिन्नमन्नेहिं । तुब्भारिसेहिं एयं, तुब्भेसु य पच्चतो अहं ॥ ३४८०॥
धर्मस्तेषां ध्रुवकर्मिकप्रभृतीनां कथ्यते, कथयित्वा च पर्यन्ते सण्टङ्कमानीयमिदमुच्यतेधर्मार्थमेव युष्मादृशैरन्यैरेतत् उपकरणं मह्यं दत्तं युष्मासु च विषये अस्माकमतीव प्रत्ययो विश्वासः ॥ ३४८० ॥
ततः किम्? इत्याहतो ठवियं णे एत्थं, दिजउ तं सावया इमं अम्हं ।
जइ देंती रमणिजं, अदेंते ताहे इमं भणति ॥ ३४८१॥ १. उवयति-सं. ।
गाथा ३४७५-३४८१ एकाकि
वृद्धस्य
उपकरण| स्थापनविधिः
१३७३ (B)
For Private and Personal Use Only