________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम
उद्देशकः १३७१ (A)
तेन पथा गच्छेत् , अथवा अपान्तराले स वातेन स्पृष्टः स्यात् ततो गन्तुं न शक्नोति। एवममुना प्रकारेण स स्फिटितो भवेत् । अथवा तथाविधमहागर्तायाः पर्वतस्य नद्या वा परिरयेण स स्थविरो व्रजन् गच्छात् स्फिटितः स्याद्, यदि वा यस्तस्य सहायो दत्तः स कालगत इति स्फिटित एकाकी सञ्जातः । अथवा सम्भ्रमे श्वापदसम्भ्रमे वा त्वरितं सार्थेन सह पलायमाने गच्छे स्थविरः शनैर्ऋजन् गच्छात् स्फिटितो भूयाद्। यदि वा प्रथमेन क्षुत्परीषहेन द्वितीयेन तृट्परीषहेन पीडितः सन् यः स्थविरो ग्रामं वजिकां वा प्रविष्टो भवेत्, गच्छश्च स्तेनादिभयेन सार्थेन समं त्वरितं व्रजति [एवं] स गच्छात् स्फिटति ॥ ३४६९ ॥ ३४७० ॥ एएहिं कारणेहिं, फिडितो जो अट्ठमं तु काऊण ।
गाथा अणहिंडतो मग्गति, इतरे वि य तं विमग्गंति ॥ ३४७१॥
३४६७-३४७४
वृद्धस्य एतैरनन्तोदितैः कारणैर्यो गच्छात् स्फिटितः सोऽष्टमं षष्ठं चतुर्थं वा कृत्वा | एकाकिभवनभिक्षाम[नटन् गच्छं मार्गयति अन्वेषयति, इतरेऽपि च गच्छसाधवस्तं स्थविरं विमार्गयन्ति। || कारणानि अथ ते गच्छसाधवः सार्थेन समं व्रजन्तो यदि सार्थं मुञ्चन्ति तदा स्तेनैरपहियन्ते, वनदावेन
४१३७१ (A)
१. गच्छन्- सं. ॥
For Private and Personal Use Only