________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम
उद्देशकः
१३७० (B)|
अथैकोऽपि सहायो न विद्यते तदा स स्थविर एकाक्यपि पुरतः प्रवर्त्यते, तत्र यदि सार्थादिवशतस्त्वरितं गच्छन् स गणः पुरतो गच्छेत्, यदि वा पथि परिरयादिना स स्फिटितो भवेत्, तत्र एकं साधुं रिक्तमुपकरणरहितं स्थापयेत्। अथ तत्र शरीरापहारिस्तेनभयं दुष्टव्याघ्रादिश्वापदभयं वा ततः स मोक्तुं न शक्यते तर्हि अग्रेतनस्थानात् प्रतिनिवर्तमानं पथिक मप्पाहे इति सन्देशापयेत् यथा-अग्रे साधुसमुदायो व्रजन्नास्ते तस्मात् त्वरितमागम्यतामिति ॥ ३४६८ ॥ सम्प्रति यथा स स्फिटितो भवति तथा प्रदर्शयति
सारिक्खकड्डणीए, अहवा वातेण होज पुट्ठो उ । एवं फिडितो होजा, अहवा वी परिरएणं तु ॥ ३४६९ ॥ कालगए व सहाए, फिडितो अहवा वि संभमो होजा । पढमबिइतोदएण व, गामपविट्ठो व जो होज्जा ॥ ३४७०॥
पथि गच्छतो मार्गद्वयं तत्र येन पथा गच्छो गतस्तस्मादन्यस्मिन् पथि केचित् साधुसदृशाः पुरतो गच्छन्तो दृष्टास्ततः साधव एते गच्छन्तीति सादृश्यमिति सादृश्यकर्षिन्या विप्रलब्धस्सन्
गाथा ३४६७-३४७४
वृद्धस्य एकाकिभवनकारणानि
१३७० (B)
For Private and Personal Use Only