________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः १३७० (A)
तामेव यतनामाहसंघाडग एगेण व, समगं गिण्हंति सभए ते उवहिं । कितिकम्म दवं पढमा, करेंति तेसिं असति एगो ॥ ३४६७॥
यदि गच्छेन समं व्रजति ततः सुन्दरमेव सकलस्यापि गच्छस्य तत्साराकरणात्। अथ | समकं गन्तुं न शक्नोति तदा साधुसङ्घाटकेन समं, साधुसङ्घटकस्याऽभावे एकेन वा साधुना समं व्रजति, तत्र यौ तौ सहायौ दत्तौ तौ तस्योपकरणं गृह्णीतः परिवहतः यदा तु चौरभयेन सभयं स्थानं तदा समस्तमपि उपधिं कल्पादिलक्षणं गृहीतः, गृहीत्वा स्थविरो यथाजातः कृत्वा अग्रे क्रियते, ततः सभयस्थानलङ्गने कतिकर्म विश्रामणां तस्य कुरुतः, कृत्वा द्रवं पानीयं समर्पयतः, तदनन्तरं प्रथमालिकां कारयतः, तयोर्द्वयोः साध्वोरभावे एकः समस्तं प्रागुक्तं करोति ॥ ३४६७॥
जइ गच्छेजाहि गणो, पुरतो पंथे य सो फिडिजाहि । तत्थ उ ठवेज एगं, रिक्कं पडिपंथिगप्पाहे ॥ ३४६८ ॥
गाथा ३४६७-३४७४
वृद्धस्य एकाकिभवनकारणानि
१३७० (A)
For Private and Personal Use Only