________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः
१३६९ (B)
www.kobatirth.org
सो पुण गच्छेण समं, गंतूण अजंगमो न चाएइ । गच्छाणुकंपणिज्जो, हिंडइ थेरो पयत्तेणं ॥ ३४६५ ॥
स पुनरजङ्गमो गच्छेन समं गन्तुं न शक्नोति ततः स गच्छस्यानुकम्पनीय इति कृत्वा स्थविरो वक्ष्यमाणेन प्रयत्नेन यतनया हिण्डते ॥ ३४६५ ॥
तमेव प्रयत्नमाह -
अतक्किउवहिणा ऊ, थेरा भणिया अलोभणिज्जेण । संकमणे पट्टवणं, पुरतो समगं च जयणाए ॥ ३४६६॥
Acharya Shri Kailassagarsuri Gyanmandir
यमुपधिं न कोऽपि तर्कयति विशेषतः परिभावयति तेन अतर्कणीयेनोपधिना अत एवा लोभनीयेन लोभगोचरतामतिक्रान्तेन परिधाप्य मासकल्पप्रायोग्यस्य वर्षावासप्रायोग्यस्य वा क्षेत्रस्य सङ्क्रमणे कर्त्तव्ये आचार्येण ते स्थविरा अतिमहान्तो भणिताः - पुरतः समकं वा यतनया चल्यतां, तत्र यदि प्रतिभासते तर्हि पुरतोऽग्रे साधुभिः सह तस्य प्रस्थापनं क्रियते, अथ न शक्नोति पुरतो गन्तुं तदा समकं नीयते कथम् ? इत्याह- यतनया ॥ ३४६६ ॥
For Private and Personal Use Only
गाथा
३४५९-३४६६ वृद्धस्य
उपकरणविशेषा:
| १३६९ (B)