________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १३६६ (A)
वुड्डावासे चेवं, गहणादिपदा उ होति नायव्वा । णाणत्त खेत्तकाले, अप्पडिहारी य सो नियमा ॥ ३४५४ ॥
वृद्धावासेऽप्येवं पूर्वोक्तेन प्रकारेण ग्रहणादीनि पदानि भवन्ति ज्ञातव्यानि। किमुक्तं |* भवति? यथा प्राक् वर्षावासे ग्रहणाऽनुज्ञापनकाङ्गिकाऽकुच-प्रायोग्यलक्षणानि पञ्च द्वाराण्यभिहितानि तथा वृद्धावासेऽप्यनुगन्तव्यानि तुशब्दो विशेषणे, स चैतत् विशिनष्टि वृद्धावासे ऋतुबद्धेऽप्येष एव विधिरिति, नवरमत्र नानात्वं क्षेत्रे काले च तथा नियमादप्रतिहारी स वृद्धावासयोग्यः संस्तारको संग्रहीतव्यः ॥ ३४५४ ॥
सम्प्रत्येतदेव स्पष्टं विभावयिषुराहकाले जा पंचाहं, परेण वा खेत्त जाव बत्तीसा ।
४३४५४-३४५८
| वृद्धावासे अप्पडिहारी असती, मंगलमादीसु पुव्वुत्ता ॥ ३४५५॥
विशेषयतनादिः इह वर्षावासे संस्तारकस्याऽऽनयने कालत उत्कर्षेण त्रीणि दिनान्युक्तानि, अत्र वृद्धावासे ||१३६६ (A) काले कालमधिकृत्य यावत् पञ्चाहं पञ्च दिनानि, ततः परेण वा आनयनं द्रष्टव्यम्।
गाथा
For Private and Personal Use Only