________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः १३६५ (B)
उग्गममादीसुद्धो, गहणादी जो उ वन्नितो एस । एसो खलु पाउग्गो, हेट्ठिमसुत्ते व जो भणितो ॥ ३४५२॥
य उद्गमादिदोषशुद्ध उद्गमोत्पादनादिदोषविशुद्धो यो वा एषोऽनन्तरमुपवर्णितो * ग्रहणादौ ग्रहणेऽनुज्ञापनायां च शुद्ध एकाङ्गिकोऽकुचश्च, यदि वा यो भणितोऽधस्तनसूत्रे ऋतुबद्धे प्रत्येकसूत्रे द्वात्रिंशद्भङ्गेषु मध्ये प्रथमभङ्गवर्ती एस खलु प्रायोग्यो वेदितव्यः ॥ ३४५२॥
कजम्मि समत्तम्मी, अप्पेयव्वो अणप्पिणे लहुगा । आणादीया दोसा, बिइयं उट्ठाणहियदड्ढो ॥ ३४५३ ॥ कार्ये समाप्ते स नियमात संस्तारकोऽर्पयितव्योऽनर्पणे प्रायश्चित्तं चत्वारो लघुकाः | आज्ञादयश्च दोषाः, अत्रापि द्वितीयपदमपवादपदं-यदि रोगस्योत्थानं प्रवर्त्तते, स्तैनैर्वापहतोऽग्निना वा कथमपि दग्धस्तदा नार्पणमिति ॥ ३४५३॥
तदेवं भावितं वर्षावाससूत्रं, सम्प्रति वृद्धावाससूत्रभावनार्थमाह
गाथा ३४४६-३४५३ संस्तारकस्य
किसानप्रकारे विधिः
१३६५ (B)
For Private and Personal Use Only