________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम
उद्देशकः १३६५ (A)
तस्मात् प्रपतेत् तत्र भवत्यात्मविराधना, यस्मादेते दोषास्तस्मात् यथा कुचं शिथिलं भवेत् तथा न बध्नीयात् किन्तु गाढबन्धनबद्धं कुर्यात् ॥ ३४४८ ॥ ३४४९ ॥
तद्दिवसं पडिलेहा, ईसिं उक्खित्तु हे? उवरिं च । रयहरणेणं भंडं, अंके भूमीए वा काउं ॥ ३४५०॥
तदिवसं प्रतिदिवसं दिने दिने इत्यर्थः । भाण्डं संस्तारकादिलक्षणम् ईषत्क्षिप्य अङ्के |* उत्सङ्गे भूमौ वा कृत्वा अध उपरि च रजोहरणेन तस्य प्रत्युपेक्षा कर्त्तव्या ॥ ३४५० ॥
एवं तु दोन्नि वारा, पडिलेहा तस्स होइ कायव्वा । सव्वे बंधे मोत्तुं, पडिलेहा होइ पक्खस्स ॥ ३४५१ ॥
| संस्तारकस्य
* एकाङ्गिकादिएवमुक्तेन प्रकारेण द्वौ वारौ प्रातरपराह्ने च तस्य संस्तारकस्य प्रत्युपेक्षा भवति कर्त्तव्या, प्रकारे विधि: पक्षस्य पक्षस्यान्ते पुनः सर्वान् बन्धान् मुक्त्वा छोटयित्वा प्रत्युपेक्षा भवति कर्त्तव्या ॥ ३४५१॥ |*
४१३६५ (A) गतमकुचद्वारमधुना प्रायोग्यद्वारमाह
गाथा ३४४६-३४५३
For Private and Personal Use Only