________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशक:
१३६४ (B)
܀܀܀܀
܀܀܀
www.kobatirth.org
प्राणाद्वित्रिचतुरिन्द्रियाः, आदिशब्दात् जीवादिपरिग्रहः ॥ ३४४७ ॥ गतमेकाङ्गिकद्वारमिदानीमकुचद्वारं, 'कुच स्पन्दने' न कुचतीत्यकुचः, इगुपान्त्यलक्षणः कप्रत्ययः । यस्तथाबद्धस्सन् न स्पन्दते सोऽकुचो ग्राह्यः यस्तु कुचबन्धनः स परिहार्यः ।
तथा चाह
बंधणम्मि लहुगा, विराहणा होइ संजमायाए । सिढिलिज्जंतम्मि जहा, विराहणा होइ पाणाणं ॥ ३४४८ ॥
पवडेज्ज व दुब्बद्धे, विराहणा तत्थ होइ आयाए ।
जम्हा एए दोसा, तम्हा हु कुयं न बंधेज्जा ॥ ३४४९॥
Acharya Shri Kailassagarsuri Gyanmandir
कुचं शिथिलं बन्धनं यस्य तस्मिन् कुचबन्धने संस्तारके गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः। तथा विराधना भवति संयमे आत्मनि च यतस्तस्मिन् शिथिल्यमाने शिथिलबन्धनतया प्रस्पन्दमाने प्राणानां विराधना भवति एषा संयमविराधना । दुर्बद्धे स
For Private and Personal Use Only
गाथा
| ३४४६ - ३४५३ संस्तारकस्य एकाङ्गिकादिप्रकारे विधिः
| १३६४ (B)