________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः
१३६४ (A)
प्रतिज्ञातमेव निर्वाहयतिअसंघातिमेव फलगं, घेतव्वं तस्स असइ संघायं । दोमाइ तस्स असती, गेण्हेज अहाकडा कंबी ॥ ३४४६ ॥
पूर्वमसङ्घातिममेव फलकं ग्रहीतव्यम् । तस्याऽसति अभावे सङ्घातिमं, किंविशिष्टम्? इत्याह-व्यादि व्यादिफलकात्मकं द्विफलकात्मकमादिशब्दात् त्रिफलकात्मकं, चतुःफलकात्मकं वा गृह्णीयादिति योगः। तस्य फलकसङ्घातात्मकस्य संस्तारकस्याऽभावे यथाकृताः कम्बीर्गृहीत, गृहीत्वा तन्मयः संस्तारको विधीयते । तत्र या नमन्ति कम्ब्यस्ताः सान्तराः क्रियन्ते, निरन्तराभिः प्राणजाते विराधना, एतच्च फलकेष्वपि द्रष्टव्यम् ॥ ३४४६ ॥
तथा चाहदोमादि संतराणि उ, करेइ मा तत्थ ऊ नमंतेहि । संघरिसेणण्णोण्णे, पाणादिविराहणा होज्जा ॥ ३४४७॥
यादीनि फलकानि नमनशिलानि सान्तराणि करोति किमर्थम्? इत्याह-तत्र ड्यादिफलकात्मके संस्तारके नमद्भिः फलकैरन्योन्यं संघर्षणे प्राणादीनां विराधना भवेत्।
गाथा ३४४६-३४५३
संस्तारकस्य एकाङ्गिकादिप्रकारे विधिः
१३६४ (A)
For Private and Personal Use Only