________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
.
सूत्रम्
अष्टम उद्देशकः १३६३ (B)|
यस्य खेलः श्लेष्मा प्रस्पन्दते स गुरुन् अनुज्ञापयति- भगवन्! मम भूयान् श्लेष्मा पतति ततोऽन्यदवकाशान्तरमनुजानीत। ततः तस्यान्योऽवकाशो दातव्यः। तथा निवाते घर्मेण पीड्यमानो यदि प्रवातमनुज्ञापयति तर्हि तस्य प्रवातो दातव्यः। प्रवाते वातेन पीड्यमानस्य निवातः । कालग्राही द्वारमूलमनुज्ञापयति, स तत्र स्थाप्यते। ग्लानस्य समीपे प्रतिचारकः, शिक्षाद्वयं ग्राहयिता शैक्षकस्य समीपे। समविषमायां भूमौ यस्य पार्थाणि दुखयतः सोऽध्यास्यायां भूमौ स्थाप्यते । यो यं पुनः पुनः प्रतिपृच्छति स तस्य पार्श्वे । आसंखडिकः स स्वतरकस्य पार्श्वे । एवमनुज्ञापना साधूनां भवति । आचार्येण च शुद्धभावमवगम्य तथैवानुज्ञायते ॥ ३४४४ ॥
उपसंहारमाहएवमणुण्णवणाए, एयं दारं इहं परिसमत्तं । एगंगियादिदारा, एत्तो उद्धं पवक्खामि ॥ ३४४५॥
एवमुक्तप्रकारेण साधूनामनुज्ञापनायां भणितायामेतत् अनुज्ञापनालक्षणं द्वारमिह | १३६३ (B) परिसमाप्तम्, अत ऊर्ध्वं तु एकाङ्गिकादीनि द्वाराणि प्रवक्ष्यामि ॥ ३४४५ ॥
गाथा ३४३८-३४४५
स्थापनाऽनुज्ञापना
For Private and Personal Use Only