________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम
उद्देशकः १३६२ (A)
तदेवाहसव्वे वि दिगुरूवे, करेहि पुनम्मि अम्ह एगयरो । अन्नो वा वाघाए, अप्पहिति जं भणसि तस्स ॥ ३४३८॥ संस्तारकस्वामिनं प्रत्युच्यते-सर्वानप्यस्मान् दृष्टरूपान् दृष्टमूर्तीन् कुरु, अस्माकमेकतरः पूर्णे वर्षाकाले संस्तारकं युष्माकमर्पयिष्यति । अथास्माकमेतेषां कश्चनापि व्याघातो भवेत् तदा अन्योऽपि यत्त्वं भणसि तस्य समर्पयिष्यति ॥ ३४३८ ।।
एवं ता सग्गामे, असती आणेज अन्नगामातो । सुत्तत्थे काऊणं, मग्गइ भिक्खं तु अडमाणो ॥ ३४३९ ॥ एवमुक्तप्रकारेण तावत् स्वनामे संस्तारकाऽऽनयने विधिरुक्तः । असति स्वग्रामे || स्थापना
ऽनुज्ञापना संस्तारकस्याऽभावे अन्यग्रामादपि आनयेत् । कथम्? इत्याह-सूत्रार्थों कृत्वा सूत्रपौरुषीमर्थपौरुषीं च कृत्वा भिक्षामटन् संस्तारकं मार्गयति, यदि पुनरन्यग्रामेऽपि | १३६२ (A) प्रत्येकसंघाटकस्याऽलाभस्तदा अर्थपौरुषी हापयित्वा तत्र वृन्देन गत्वा याचन्ते ॥ ३४३९ ॥
गाथा
३४३८-३४४५
For Private and Personal Use Only