________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
१३६१ (B)
एस विही उ भणितो, जहियं संघाडएहि मग्गंति । संघाडेहऽलभंता, ताहे वंदेण मग्गंति ॥ ३४३६॥
यत्र सङ्घाटकैः प्रत्येकं संस्तारका मृग्यन्ते तत्र एष प्रत्येकं प्रत्येकमानीतानां संस्तारकानाम् आभवनानाभवनव्यवहारविषयो विधिरुक्तः, यत्र पुनरेकैकः सङ्गाटको न लभते तदा 'वृन्दसाध्यानि कार्याणि वृन्देन कर्त्तव्यानि' इति न्यायात् सङ्घाटकैरलभमाना वृन्देन समुदायेन मार्गयति ॥ ३४३६॥ तत्र विधिमतिदेशत आह
गाथा वंदेणं तह चेव य, गहणण्णुवणाइतो विही एसो ।
३४३१-३४३७
संस्तारके नवरं पुण नाणत्तं, अप्पिणणे होइ नायव्वं ॥ ३४३७॥
आभवद्वृन्देनापि मार्गणे तथैव तेनैव प्रकारेण ग्रहणे अनुज्ञापनायामादिशब्दादर्पणे च विधिरेष || व्यवहारः प्रागभिहितो द्रष्टव्यः, नवरं पुनरर्पणे भवति नानात्वं ज्ञातव्यं ॥ ३४३७ ।। १. अप्पिणणे-ला.। अप्पणणे-मु. ॥ अप्पणिणे-पुप्रे. ॥
४१३६१ (B)
For Private and Personal Use Only