________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३६१ (A)
܀܀܀܀܀
www.kobatirth.org
तयोः पितापुत्रयोः मध्ये यः प्रभुतरस्तेन यस्य दत्तस्तस्याभवति अथवा द्वावपि प्रभू ताभ्यां द्वाभ्यामपि सम्भूय यस्य दत्तस्तस्याऽऽभवति, यस्य तु प्रतिषिद्धस्तस्य नाऽऽभवति । अथ अप्रभुणा दत्तं गृह्णाति, गाथायां सप्तमी तृतीयार्थे तदा तस्य प्रायश्चित्तं चत्वारो लघवस्तथा आज्ञादयो दोषाः । यच्च एकतरप्रद्वेषत आपद्यते प्रायश्चित्तं तदपि तस्य द्रष्टव्यम् । एकतरप्रद्वेषतो नाम-यः प्रभुः स संयतस्य वोपरि प्रद्वेषं यायात् येन वा अप्रभुणा सता दत्तस्तस्य ॥ ३४३४ ॥
अहवा दुन्नि वि पहुणो, ताहे साहारणं तु दोण्हं पि । विपरिणामादीणि उ, सेसाणि तहेव भावेज्जा ॥ ३४३५ ॥
साम्प्रतमुपसंहारमाह—
Acharya Shri Kailassagarsuri Gyanmandir
अथवा द्वावपि पितापुत्रौ प्रभू द्वाभ्यामपि च पृथक् पृथक् द्वयोः सङ्घाटकयोरनुज्ञातस्तदा तयोर्द्वयोरपि सङ्घाटकयोः साधारणमाचक्षते संस्तारकम् । तदेवं यथाभावे विशेषो दर्शितः, शेषाणि तु विपरिणामादीनि पञ्चापि द्वाराणि तथैव भावनीयानि यथा प्रागभिहितानि
॥३४३५ ॥
For Private and Personal Use Only
गाथा ३४३१-३४३७ संस्तारके आभवद्व्यवहारः
| १३६१ (A)