________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम् अष्टम
उद्देशकः १३६० (B)
शेषाणि विपरिणामादीनि द्वाराणि बुद्ध्या यथा प्रागभिहितानि तथैव परिभाव्य विभाषेत प्रतिपादयेत् गतमूर्वीकृतद्वारमत ऊर्ध्वं प्रभुद्वारं वक्ष्यामि ॥ ३४३२॥ ।
प्रतिज्ञातमेव निर्वाहयतिप्रभुद्दारे वी एवं, नवरं पुण तत्थ होइ अहभावे । एगेण पुत्तो जाइतो, बिइएण पिया उ तस्सेव ॥ ३४३३॥
प्रभुद्वारेऽपि एवं पूर्वप्रकारेण श्रुत्वादीनि षड् द्वाराणि ज्ञेयानि, नवरं पुनस्तत्र प्रभुद्वारे यथाभावे यथाभावलक्षणे अवान्तरभेदे नानात्वं भवति, तदेवोपदर्शयति- एकेन सङ्घाटकेन यथाभावेन पुत्रो याचितः, एकेन तस्यैव पिता द्वाभ्यामपि दत्तः, स कस्याऽऽभवति?॥ ३४३३॥
तत आहजो पभुतरओ तेसिं अहवा दोहिं पि जस्स दिण्णं तु । अप/मि लहु आणा एगतरपदोसतो जं च ॥ ३४३४॥
गाथा ३४३१-३४३७ संस्तारके आभवद्व्यवहारः
४१३६० (B)
For Private and Personal Use Only