________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
.
श्री
.
व्यवहार
सूत्रम्
अष्टम उद्देशकः १३६२ (B)
अद्दिढे सामिम्मि उ, वसिउं आणेति बिइयदिवसम्मि । खित्तम्मि उ असंते, आणयणं खेत्तबहियातो ॥ ३४४०॥
यदि स्वग्रामे न दृश्यते संस्तारकः, दृश्यमानो वा न लभ्यते तदा स्वक्षेत्रे द्विगव्यूतप्रमाणे अन्यग्रामे गत्वा याचनीयः। अथ न दृश्यते तत्र संस्तारकस्वामी तदा गृहे उषित्वा द्वितीयदिवसे संस्तारकमनुज्ञाप्य गृहीत्वा समागच्छन्ति। अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे संस्तारकस्याऽभावे स्वक्षेत्राहिष्टादप्यानयनं संस्तारकस्य द्वित्रिदिनमध्ये कर्त्तव्यम् ॥ ३४४० ॥
सव्वेहिं आगएहिं, दाउं गुरुणो उ सेस जहवुटुं । संथारे घेत्तूणं, ओवासे होतऽणुण्णवणा ॥ ३४४१॥
सर्वैरपि सङ्घाटकैः परपरतरग्रामेभ्यः समागतैः संस्तारकपरिपूर्णतायां सत्यां त्रय उत्कृष्टाः | संस्तारका गुरोर्दातव्याः। ततः शेषैर्यथावृद्धं यथारत्नाधिकतया गृहीतव्याः, तान् संस्तारकान् गृहीत्वा तदनन्तरमवकाशे भवत्यनुज्ञापना। एतावता ग्रहणमिति द्वारं समाप्तमनुज्ञापनाद्वारं समापतितमित्यावेदितम् ॥ ३४४१ ।।
गाथा ३४३८-३४४५ स्थापनाऽनुज्ञापना
१३६२ (B)
For Private and Personal Use Only