________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
१३५९ (B)
वर्षस्य आगमनमागमनं ज्ञात्वा अपान्तराले वर्षं पतेदिति कृत्वा नाऽऽनेतुं तीर्णः शक्तः, तथा मा वर्षेणात्र प्रस्तारित आर्दीक्रियेत, मा वा अन्यः सङ्घाटक: समागत्य मार्गयेत् याचेत इति छन्ने प्रदेशे कुड्येऽवष्टभ्य ऊर्वीकृतः, ततो गुरुसमीपे समागत्य विकटयति तच्च श्रुत्वा अन्य उपेत्याऽऽगत्य याचते लभते च, स तेनाऽऽनीतः पूर्वसङ्घाटस्याऽऽभवति, न येनाऽऽनीतस्तस्य ॥ ३४२९॥
गतं श्रुत्वा द्वारमिदानीं 'यथाभाव'द्वारं विवक्षुराहपुच्छाए नाणत्तं, केणुद्धकयं तु पुच्छियमसिटे। अन्नासढमाणीयं, पि पुरिल्ले केइ साहारं ॥ ३४३०॥
यथाभावद्वारे पृच्छायां नानात्वं, किं तद् ? इति चेद्, उच्यते- अन्यः सङ्घाटकस्तत्र | यथाभावेन गतस्तेन ऊर्ध्वकृतं संस्तारकं दृष्ट्वा चिन्तितं किमेष संयतेन ऊर्वीकृत उत गृहस्थेन यथाभावतः? एवं तेन संशयानेन पृष्टः केनायमूर्वीकृत इति। गृहस्थैश्च न किमपि शिष्टं कथितं ततोऽन्येन सङ्घाटकेनाऽशठेन अशठभावेन संस्तारको याचितो लब्ध आनीतश्च । तमन्येनाऽशठेनाऽऽनीतमपि संस्तारकं पूर्वस्य सङ्घाटकस्याभवन्तमाचक्षते, केचित् पुनर्द्वयोरपि
गाथा ३४२५-३४३०
संस्तारकमार्गणे आभवनव्यवहारः
१३५९ (B)
X.
For Private and Personal Use Only