________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १३५९ (A)
याचते, तत्राऽन्यो मनुष्योऽन्यं संस्तारकं यदि ददाति, यदि वा स एव पूर्वसङ्घाटकयाचितसंस्तारकस्वामी परमन्यं संस्तारकं तदा कल्पते, पूर्वयाचितस्तु अनेन अन्येन वा दीयमानो न कल्पते तथा चाह
सेसाणि य दाराणी, तह वि य बुद्धीए भासणियाई । उद्धद्दारे वि तहा, णवरं उद्धम्मि णाणत्तं ॥ ३४२८ ॥
शेषाण्यपि विपरिणामवर्जानि श्रुत्वादीनि द्वाराणि तथैव प्रागुक्तप्रकारेणैव बुद्ध्या परिभाव्य भाषणीयानि, तानि च तथैव भाषितानि। गतं संज्ञातिकद्वारमिदानीमूर्ध्वद्वारमाह-ऊर्ध्वद्वारेऽपि तथा पूर्वोक्तप्रकारेण द्वाराणि षडपि श्रुत्वादीनि योजनीयानि नवरमूर्ध्व ऊर्ध्वकरणे नानात्वम् | ॥ ३४२८ ॥ तदेव भावयति
आणेऊण न तिन्ने, वासस्स य आगमं तु नाऊणं। मा उल्लेज हु छन्ने, ठवेइ मा वन्नो मग्गेजा ॥ ३४२९॥
११३५९ (A) सङ्घाटकेन क्वापि गृहे संस्तारको दृष्टो याचितो लब्धश्च आनेतुमपि च व्यवसितः परं |
गाथा ३४२५-३४३०
संस्तारकमार्गणे आभवन
व्यवहारः
For Private and Personal Use Only