SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्ट उद्देश : १३५८ (B) ܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञातगृहेऽन्योऽसंज्ञातिकस्तेन संस्तारकस्वामिना असमनुज्ञातो न गृह्णाति, अहं पुनः संज्ञातिकस्ततोवश(श्यं)याम्येकवारमननुज्ञातस्यापि संस्तारकस्य ग्रहणे, तथा सति विभवे यदि वा विभवाभावेऽपि स्वशक्त्या सोऽपि संज्ञातिकस्तेनात्मीयेन संज्ञातिकेन विना न निर्विशति उपभुङ्क्ते भक्तपानसंस्तारकादि तस्मात् मम दातव्य एष संस्तारक' इति एवं विपरिणम्याऽऽनीतः पूर्वसङ्घाटकस्याऽऽभवति, न येनानीतस्तस्य । गतं विपरिणामद्वारमधुना धर्मकथाद्वारमुच्यते, तथैवालोचनामाकर्ण्य अन्यस्सङ्घाटकस्तत्रागत्य धर्मकथामारभते, ततो धर्मकथया तमत्यन्तमावर्ण्य तं संस्तारकं याचते। स च धर्मकथाश्रवणोपरोधतो न निषेद्धुं शक्त इति तस्मै दत्तवान् । सोऽपि पूर्वसङ्घाटकस्याऽऽभवति, न येनाऽऽनीतस्तस्य ॥ ३४२५ ।। ३४२६ || ३४२७ ॥ गतं धर्मकथाद्वारं, सम्प्रति व्यवच्छिन्नद्वारभावना, तस्य संज्ञातिकस्य याचितसंस्तारकविषये भावः कुतश्चित् कारणात् व्यवच्छिन्नोऽन्येन च सङ्घाटकेन अशठभावेन याचित्वा समानीतः स येनाऽऽनीतः तस्याऽऽभवति न पूर्वसंज्ञातिकस्य । अन्यद्वार भावना त्वियं पूर्वप्रकारेण तेन संज्ञातिकेन गुरुणामन्तिके विकटने कृते तत् श्रुत्वा अन्यः सङ्घाटकस्तत्र गत्वा संस्तारकं १. ० मनुज्ञा० पु. प्रे. ॥ For Private and Personal Use Only गाथा | ३४२५-३४३० संस्तारकमार्गणे आभवनव्यवहारः १३५८ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy