________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम उद्देशकः १३५७ (A)
प्रथमसनाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्ते अन्यस्सङ्घाटकस्तत्र समागत्य संस्तारकं याचते तत्र यदि अन्यो मनुष्योऽन्यं संस्तारकं दद्यात् स वा प्रथमसङ्घाटकयाचितोऽन्यं तदा स तस्य कल्पते, यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कल्पते ॥ ३४२१ ॥
तथा च विपरिणामद्वारमुक्त्वा शेषद्वाराणामतिदेशमाहअहभावाऽऽलोयण-धम्मकहण-वोच्छिन्नमन्नदाराणि । नेयाणि तहा चेव उ, जहेव ओभट्ठदारम्मि ॥ ३४२२ ॥
यथाभावद्वारम् आलोयणत्ति पदैकदेशे पदसमुदायोपचाराद् आलोचनां श्रुत्वेति द्वारं धर्मकथनद्वारं व्यवच्छिन्नभावद्वारमन्यद्वारं चेति पञ्च द्वाराणि यथैव चाऽवभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि षष्ठं तु विपरिणामद्वारं साक्षादुक्तम् ॥३४२२॥
गतं लब्धद्वारमिदानीं संज्ञातिकद्वारमाहसन्नातिए वि एच्चिय, दारा नवरं इमं तु नाणत्तं । आयरिएणाभिहितो, गेण्हह संथारयं अज्जो! ॥ ३४२३॥
गाथा ३४२०-३४२४
संस्तारकमार्गणे आभवनादिः
१३५७ (A)
For Private and Personal Use Only