________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम
उद्देशकः १३५६ (B)
नवरि अन्नो आगतो, तेण वि सो चेव पणतितो तत्थ । दिन्नो अन्नस्स ततो, विप्परिणामेइ तह चेव ॥ ३४२१॥
प्रथमसङ्घाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्ते नवरि केवलमन्यः सङ्घाटक आगतस्तेनापि तत्र स एव संस्तारकः प्रणयितो याचितः संस्तारकस्वामिनोक्तं दत्तोऽन्यस्य। ततस्तथैव तं विपरिणामयति यथा- 'सर्वदैवाहं तव प्रियस्ततो मयि सति किमन्यस्मै तव दातुमुचितं? तस्माद्यदि स आगच्छति तर्हि तस्य प्रतिषिध्य पश्चान्मह्यं दातव्य इति' एवं यदि विपरिणम्याऽऽनीतो भवति ततः स पूर्वस्याऽऽभवति नेतरस्य । तदेवमुक्तं विपरिणामद्वारमधुना धर्मकथाद्वारं-तथैव प्रथमसनाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्ते अन्यः सङ्घाटकस्तत्र समागत्य तं संस्तारकं याचितवान्। ततः संस्तारकस्वामिनोक्तंदत्तोऽन्यस्मै, ततो धर्मकथाकथनतस्तमावर्ण्य ब्रूते यथा तस्य प्रतिषिध्याऽयं संस्तारको मह्यं देयः, एवमानीतः पूर्वसङ्घाटकस्य स आभवति नेतरस्य। तथा येन प्रथमसङ्घाटकेन संस्तारको याचितो लब्धश्च, तस्य तद्विषये भावः कुतश्चित् कारणात् व्यवच्छिन्नः, अन्येन वाऽशठभावेन याचितो लब्धश्च तस्याऽऽभवति न प्रथमसङ्घाटकस्य तस्य तद्विषयभावव्यवच्छेदात्। तथा
गाथा ३४२०-३४२४
संस्तारकमार्गणे आभवनादिः
H
१३५६ (B)
For Private and Personal Use Only