________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लब्धद्वारेऽप्येवमुक्तप्रकारेण श्रुत्वादीनि द्वाराणि यथासम्भवं योजयेत् यावन्मात्रश्च विशेषस्तावन्मानं तं विशेष समासेन प्रवक्ष्यामि ॥ ३४१९ ॥
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १३५६ (A)
तत्र प्रथमं श्रुत्वेति द्वारमधिकृत्य विशेषमाहओभासियम्मि लद्धे, भणंति न तरामि एण्हि नेउं जे । अच्छउ नेहामो पुण, कल्ले वा घेच्छिहामो ति ॥ ३४२० ॥
प्रथमसनाटकेन भिक्षामटता क्वापि संस्तारको दृष्टो याचितो लब्धश्च तस्मिन् अवभाषिते लब्धे च साधवो भणन्ति 'न शक्नुमः सम्प्रति भिक्षामटन्तः संस्तारकं नेतुं ततस्तिष्ठतु | पश्चान्नेष्यामः', एतच्च गुरुसमीपे समागत्य तेन सङ्घाटकेनाऽऽलोचितं तच्च श्रुत्वा अन्यो याचते | लभते च, स आनीतस्सन् पूर्वसङ्घाटकस्याऽऽभवति न येनानीतस्तस्य। अपरः सङ्घाटकोऽग्रेतनसङ्घाटकवृत्तान्तमविदित्वा यथाभावेन गत्वा याचते लभते च तेनाप्यनीतः पूर्वसङ्घाटकस्याऽऽभवति न तस्य, अपरे द्वयोरपि तं साधारणमाचक्षते ॥ ३४२०॥
गाथा ३४२०-३४२४
संस्तारकमार्गणे आभवनादिः
४१३५६ (A)
विपरिणामद्वारं साक्षादाह
For Private and Personal Use Only