________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३५५ (B)
www.kobatirth.org
वारं न कोऽपि याचिष्यते', एवं व्यवच्छिन्नं भावं ज्ञात्वा योऽन्यः सङ्घाटको याचते लभते च स तस्याऽऽभवति न पूर्वस्य । तदेवं योजितानि यथाभावादीनि चत्वार्यपि द्वाराणि अत ऊर्ध्वमाहषष्ठे द्वारे 'अन्यो वाऽन्यस्येति' लक्षणे विशेषोऽस्ति तं वक्ष्यामि ॥३४१७ ॥ प्रतिज्ञातमेव करोति
अच्छिण्णे अण्णोणं, सो वा अण्ण तु स देजाहि ।
कप्पइ जो उ पणइतो, तेण व अन्नेण व न कप्पे ॥ ३४१८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
येन प्रथमसङ्घाटन संस्तारको दृष्टो याचितश्च न च लब्धस्तस्य तद्विषये भावे अच्छिन्ने अव्यवच्छिन्ने अन्येन सङ्घाटकेन तत्र गत्वा याचिते अन्यो मनुष्योऽन्यं संस्तारकं यदि दद्यात् यदि वा स एव संस्तारकस्वामी अन्यं संस्तारकं दद्यात् तदा स तस्य कल्पते यस्तु प्रणयितो याचितः संस्तारकः स तेन स्वामिना अन्येन वा मनुष्येण दीयमानो न कल्पते ॥ ३४१८ ॥
गतमवभाषितद्वारम् । अधुना लब्धद्वारमाह
लद्धद्दारे चेवं, जोए व जहसंभवं तु दाराई । जत्तियमेत्तविसेसो, तं वोच्छामि समासेणं ॥ ३४१९ ॥
For Private and Personal Use Only
गाथा
| ३४१४-३४१९ संस्तारकमार्गणे
* आभवनादिः
१३५५ (B)