________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम उद्देशकः १३५३ (B)
तस्य प्रायश्चित्तं चत्वारो लघुकाः, अन्यगणसत्के चत्वारो गुरुकाः। तथा स्वगणसत्को वा अन्यगणसत्को वा विपरिणम्य लब्ध्वा यदि पृष्ट सन् विपरिणामनमपलपति तदा मायानिमित्तो मायाप्रत्ययो भवत्यधिको गुरुको मासः ४ ॥ ३४११ ॥
सम्प्रति व्यवच्छिन्नद्वारमाहअह पुण जेणं दिट्ठो, अन्नो लद्धो उ तेण संथारो । छिन्नो तदुवरिभावो, तहि जो लभति तस्सेव ॥ ३४१२ ॥ दारं ५।।
अथ पुनर्येन सङ्घाटकेन दृष्टः संस्तारकस्तेनाऽन्यो लब्धः संस्तारकः, तस्य | पूर्वदृष्टस्योपरि भावोऽध्यवसायः छिन्नो व्यवच्छिन्नस्ततो यः पश्चात् लभते तस्यैव स * आभवति नेतरस्य ५॥ ३४१२ ॥
गतं व्यवच्छिन्नद्वारम् । अधुना त्रिप्रतिषिद्धद्वारमाहअहवा वि तिन्नि वारा उ मग्गितो न वि य तेण लद्धो उ । भावे छिन्नमछिन्ने अन्नो जो लभइ तस्सेव ॥ ३४१३॥ दारं ६ ।
गाथा ३४०६-३४१३ संस्तारकमार्गणे आभवनव्यवहारः
१३५३ (B)
For Private and Personal Use Only