________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३५३ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोऽन्यस्य न कल्पते । एष च संस्तारकोऽमुकेन दृष्टस्ततस्त्वं मम प्रियतया तस्य याचमानस्य मा संस्तारकममुं दद्याः, ततस्तस्मिन् प्रतिषिद्धे एष मम भविष्यति, अत्रेयमाभावनचिन्तायदि विपरिणामकरणे[न] लब्धस्ततस्तस्य नाऽऽभवति किन्तु पूर्वस्यैव सङ्घाटस्य, अथवा द्वितीयो विपरिणामनप्रकारस्तमाह – गुरुसकाशे विकट्यमानमन्यस्य वा सङ्घाटस्य शिष्यमाणं संस्तारकं श्रुत्वा अन्यः सङ्घाटकस्तत्र गत्वा तं संस्तारकस्वामिनं धर्मकथया धर्मकथाकथनेनाऽऽवृत्त्या - ऽऽत्मानुकूलं कृत्वा पश्चाद् विपरिणामयति । कथम् ? इत्याहसंथारगदाणेत्यादि, संस्तारकस्वामिनं पूर्वं संस्तारकदानफलादिलोभितं ब्रूते- 'अमुकं सङ्घाटकं याचमानं त्रीन् वारान् प्रतिषिध्य तदनन्तरं मम संस्तारकं देहि' एवं विपरिणामकरणतो लब्धः स पूर्वस्यैव सङ्घाटस्याभवति न पाश्चात्यस्य ॥ ३४०८ || ३४०९ ॥ ३४१० ॥
अत्र प्रायश्चित्तविधिमाह
एवं विपरिणामिएण, लभति लहुगा य होंति सगणिच्चे । अन्नगणिच्चे गुरुगा, मायनिमित्तं भवे गुरुगो ॥ ३४११ ॥ एवमुक्तेन प्रकारेण विपरिणामितेन स्वामिना यदि लभते स्वगणसत्कः साधुस्तदा
For Private and Personal Use Only
गाथा
| ३४०६-३४१३ संस्तारकमार्गणे
आभवन
व्यवहारः
| १३५३ (A)