________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
१३५२ (B)
प्रत्यागतेन गुरुसकाशे आचार्यस्य समीपे 'दृष्टो मया संस्तारकः परं स्वामी न दृष्टस्तत आगतं सन्तं याचिष्ये' इति संस्तारकं विकट्यमानमालोच्यमानं श्रुत्वा, यदि वा भिक्षा | हिण्डमानोऽन्यस्य सङ्घाटकस्य शास्ति कथयति यथा- 'अमुकत्र मया दृष्टः संस्तारकः परं स्वामी नास्तीति न याचितः, स्वामिन्यागते याचिष्यामि' एवं शिष्यमाणं श्रुत्वा३॥ ३४०७ ॥
गंतूण तहिं जायइ, लद्धम्मी बेति अम्ह एस विही । अन्नदिट्ठो न कप्पइ, दिट्ठो एसो उ अमुगेणं ॥ ३४०८ ॥ मा देजसि तस्सेयं, पडिसिद्धे एस मज्झं तु । अन्नो धम्मकहाए, आउट्टेऊण तं पुव्वं ॥ ३४०९ ॥ संथारगदाणफलादिलोभियं बेति देहि संथारं । अमुगं ति तिन्नि वारा, पडिसेहेऊण तो मझं ॥ ३४१० ॥ दारं ४।
गत्वा तत्र संस्तारकस्वामिनं संस्तारकं याचते याचित्वा लब्धे तं[वि]परिणामयति यथा एषोऽस्माकं विधिः आचारो योऽन्येन दृष्टो दृष्ट्वा च संस्तारकस्वामिनं याचिष्ये इत्यध्यवसितः |
गाथा ३४०६-३४१३ संस्तारकमार्गणे आभवनव्यवहारः
१३५२ (B)
For Private and Personal Use Only