________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः १३५२ (A)
व्याख्यातमिदानीं 'यथाभावेनेति' व्याख्यानयतिबितिओ उ अन्नदिद्वं, अहभावेणं तु लद्धमाणेति । पुरिमस्सेव उ स खलू, केई साहारणं बेंति ॥ ३४०६॥ दारं २।।
प्रथमसङ्घाटकेन संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्याऽयाचित्वैव वसतौ प्रत्यागते द्वितीयः | सङ्घाटकोऽशठभावोऽन्येन पूर्वं दृष्टं इत्यजानानो यथाभावेन तमन्यदृष्टं संस्तारकं स्वामिनमनुज्ञाप्य लब्ध्वा समानयति स कस्याभवति? इति चेद्, अत आह- स खलु नियमात् पूर्वस्य सङ्घाटकस्य येन पूर्वं दृष्टो न पाश्चात्यस्य येन समानीतः । केचिदुभयोरपि सङ्घाटयोराभवनमधिकृत्य साधारणं ब्रुवते २॥ ३४०६ ॥
गतं यथाभावेनेति द्वारमिदानीं 'तस्यैव वा वचनतः श्रुत्वेति' द्वारव्याख्यानार्थमाहतइतो उ गुरुसगासे, विगडिजंतं सुणेत्तु संथारं । अमुगत्थ मए दिट्ठो, हिंडंतो वऽन्नसीसंतं ॥ ३४०७ ॥ दारं ३। तृतीयः सङ्घाटकः प्रथमेन सङ्घाटकेन क्वापि संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्य वसतौ
गाथा ३४०६-३४१३ संस्तारकमार्गणे आभवनव्यवहारः
१३५२ (A)
For Private and Personal Use Only