________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः १३५१ (B)
6
.
संस्तारक:?' स प्राह- 'अमुकस्य परमिदानीमत्र स न तिष्ठति' ततः सङ्घाटक: चिन्तयति यदा संस्तारकस्वामी समागमिष्यति तदा याचिष्ये इति विचिन्त्य प्रतिसरति प्रतिनिवर्तते वसतावागच्छतीत्यर्थः । ततः प्रतिनिवृत्य तदा अन्यदा वा अवभाषिते याचिते संस्तारकं लब्ध्वा वसतिमानयति ॥ ३४०४॥
अत्रैवापान्तराले वक्तव्यशेषमाहसंथारो दिट्ठो न य, तस्स जो पभू लघुगो अकहणे गुरुणं । एहि एव कहिए वा, अन्नेण वि आणितो तस्स ॥ ३४०५॥ दारं १॥
यदा संस्तारकं प्रेक्ष्य तस्य स्वामिनमदृष्ट्वा वसतौ प्रत्यागतस्तदा तेन गुरूणामाचार्याणां कथनीयं यथा- दृष्टः संस्तारको न च तस्य संस्तारकस्य यः प्रभुः स उपलब्ध इति एवं चेन्नालोचयति तस्य प्रायश्चित्तं लघुको मासः । तथा कथिते अकथिते वा गुरूणां यद्यन्येन सङ्घाटकेनाऽमुकस्य गृहे संस्तारकोऽमुकेन सङ्घाटकेन दृष्टः परं स्वामी नो लब्ध इति न याचितस्तस्माद्वयं याचित्वाऽऽनयाम इति विचिन्त्य तत्र गत्वा स्वामिनमनुज्ञाप्यानीतः तथापि येन पूर्वं दृष्टस्तस्य पूर्वं भवति न पाश्चात्यसङ्घाटकस्य १॥ ३४०५ ॥
x.
x.
गाथा ३३९९-३४०५ संस्तारकस्य मार्गणे अनुज्ञापने ग्रहणे च विधिः
१३५१ (B)
For Private and Personal Use Only