________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १३५० (B)
__ आभिग्रहिकस्याऽभावे विष्वक् प्रत्येकं सङ्घाटकानां ग्रहणं प्रवर्त्तते । इयमत्र भावनाएकैकः सङ्घाटक: प्रत्येकमेकैकं संस्तारकं मार्गयति अभ्यधिकास्त्रयः संस्तारका आचार्यस्य योग्या मृग्यन्ते, अत्रापि सैव मार्गणे अनुज्ञापने गृहीते च यतना, यावत् कार्यसमाप्तौ क्व स्थापयितव्य इति, एवं विष्वग्ग्रहणे सर्वान् संस्तारकान् प्रतीच्छ्य प्रतिगृह्य त्रीन् संस्तारकान् गुरोर्दत्त्वा शेषानन्यान् यथावृद्धं गृह्णन्ति । इयमत्र सामाचारी- आभिग्रहिकसङ्घाटकेन आनीतानां प्रत्येकं सङ्घाटैरानीतानां वा मध्यादाचार्यस्योत्कृष्टान् त्रीन् संस्तारकान् प्रवर्तको दत्त्वा शेषाणां यथारत्नाधिकतया संस्तारकान् भाजयति, तेऽपि तथैव गृह्णन्ति ॥ ३४०० ॥
गाथा
३३९९-३४०५ णेगाण उ नाणत्तं, सगणेयरभिग्गहीण वनगणे ।
संस्तारकस्य दिट्ठोभासणलद्धे, सन्नातुड्ढे पभू चेव ॥ ३४०१ ॥
मार्गणे
अनुज्ञापने अनेकानां स्वगणेतरा भिग्रहिकाणां यन्नानात्वं प्रतिविशेषो यच्चान्यगणेन सह || ग्रहणे च
विधिः स्वगणसाधूनां समुदायेन संस्तारकान् मार्गयतामाभवद्व्यवहारनानात्वं तद् वक्ष्ये, तत्र पञ्च द्वाराणि, तद्यथा-दृष्ट द्वारमवभाषणं नाम याचनं तद्द्वारं [लब्धद्वारं] संज्ञातिकद्वारमूर्ध्वद्वारं | |१३५० (B) प्रभुद्वारं चेति ॥ ३४०१ ॥
For Private and Personal Use Only