________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः
१३५० (A)
.
स्थापनीयः ? एवमुक्ते यदि स ब्रूयात् 'यतोऽवकाशात् गृहीतोऽत्रैव स्थाने स्थापयेत्', यदि वा वदेत्–'अत्रैव स्थाने छन्ने प्रदेशेऽथवा यतोऽवकाशात् गृहीतस्तस्य पार्श्वे अथवा यस्य पुञ्जस्योपरिस्थितो गृहीतस्तस्य पुञ्जस्योपरि स्थापयितव्यः, यदि वा यत्र यूयं नयथ तत्रैव तिष्ठतु, यतो यस्योपाश्रये यूयं वसथ तेऽपि हु निश्चितमस्माकं निजकाः'। किं बहुना? यत्र वदति तत्र नीत्वा स्थापयितव्यः ॥ ३३९७ ॥ ३३९८ ॥
एसा गहिए जयणा, एतो गिण्हंतए उ वोच्छामि । एगो च्चिय गच्छे पुण, संघाडो गिण्हऽभिग्गहितो ॥ ३३९९॥
एषा अनन्तरोदिता गृहीते यतना, अत ऊर्ध्वं गृह्णति यतनां वक्ष्यामि। प्रतिज्ञातमेव करोति गच्छे पुनरेक एव सङ्घाट आभिग्रहिकः संस्तारकं गृह्णाति न शेषोऽन्यथाऽव्यवस्थापत्तेः ॥ ३३९९ ॥
आभिगहियस्स असती, वीसुं गहणे पडिच्छिउं सव्वे । दाऊण तिन्नि गुरुणा, गेण्हंतन्ने जहावुद्धं ॥ ३४०० ॥
गाथा ३३९९-३४०५
संस्तारकस्य |
मार्गणे अनुज्ञापने ग्रहणे च विधिः
१३५० (A)
For Private and Personal Use Only