________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देश :
१३४९ (B)
܀܀
www.kobatirth.org
तदा स एव परिगृह्यते केवलं परिशाटौ यतना विधेया, एषा अनुज्ञापने यतना । गृहीते यतना इयं वक्ष्यमाणा भवति ॥ ३३९६ ॥
तामेवाह
कस्स पुणप्पेयव्वो, बेति ममं जाहे तं भवे सुन्नो ।
अगस्स वि सो वि सुन्नो, ताहे घरम्मी ठवेज्जाहि ॥ ३३९७ ॥
कहि एत्थ चेव ठाणे, पासे उवरिं व तस्स पुंजस्स । अहवा तत्थेव उ ते, वि हु नीयल्लगा अम्हं ॥ ३३९८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृहीते संस्तारकः ? पुनः पृच्छति - 'कार्यसमाप्तौ कस्य पुनरर्पयितव्य एष संस्तारक: ?१ ' एवमुक्ते स यदि ब्रूते - 'ममैव समर्पयितव्य इति' तदा वक्तव्यम् – यदा त्वं भवति शून्यः किमुक्तं भवति - 'यदा यूयं न दृश्यध्वे तदा कस्य समर्पणीयः ' एवमुक्ते स ब्रूयाद्अमुकस्य, ततो भूयोऽपि वक्तव्यं - 'सोऽपि यदा शून्यो भवति न दृश्यते इत्यर्थः, तदा स्मै समर्पणीयः ?' अथ ब्रूयाद् अत्रैव गृहे स्थापयेत् । ततः पुनरपि पृच्छेत्- कतरस्मिन्नवकाशे
For Private and Personal Use Only
गाथा
• ३३९२-३३९८
संस्तारक
ग्रहणाऽनुज्ञापनविधिः
* १३४९ (B)