________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशक:
१३४९ (A)
गतं ग्रहणद्वारमिदानीमनुज्ञापने या यतना तामाहअणुण्णवणाए जयणा, गहिए जयणा य होति कायव्वा । अणुण्णवणाए लद्धे, बेंति पडिहारियं एयं ॥ ३३९५॥
अनुज्ञापनायां यतना गृहीते च यतना कर्त्तव्या, तत्राऽनुज्ञापनायामियं-लब्धे संस्तारके | ब्रुवते 'एतं संस्तारकं प्रातिहारिकं ग्रहीष्यामो यावत् प्रयोजनं तावद्धरिष्यामः पश्चात् समर्पयिष्याम' इति ॥३३९५ ॥
कालं च ठवेइ तहिं, बेति य परिसाडिवजमप्पेऽहं । अणुण्णवणजयणा एसा, गहिए जयणा इमा होइ ॥ ३३९६ ॥
यदा संस्तारको लब्धो भवति तदा तत्र कालं स्थापयति ‘एतावन्तं कालं धरिष्यामः' तथा ब्रूते 'एष संस्तारको जराजीर्णतया परिशाटिरूपस्तमेनं वयं ग्रहीष्यामस्तत्र निर्व्याघातेनैतावता कालेन, यत् परिशाटि तत् मुक्त्वा शेषमर्पयिष्यामः'। एवं यदि प्रतिपद्यते तदा गृह्यते, अथ न प्रतिपद्यते तदा न ग्रहीतव्यः किन्त्वन्यो याच्यते। अथ अन्यो याच्यमानो न लभ्यते
गाथा ३३९२-३३९८ संस्तारकग्रहणाऽनुज्ञापनविधिः
१३४९ (A)
For Private and Personal Use Only