________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३४६ (B)
विराधना पुनरेवं भवति-गुरुके हस्तात् पतिते एकेन्द्रियादीनामुपघातः, अत्र स्वस्थान-प्रायश्चित्तं, शेषेषु संयमे दोषाः संयमविराधना, ततस्तत्र प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः ॥ ३३८५ ॥
अझुसिरमादीएहिं, जा अणिसटुं तु पंचिगा भयणा । अहसंथडपासुद्धे, वुच्चत्थे होति चउलहुगा ॥ ३३८६॥
अझुसिरादिभिः पदैरारभ्य यावदनिसृष्टमिति पञ्चमं पदं तेषु पञ्चसु पदेषु प्रथमभङ्गरूपे इयं वक्ष्यमाणा भजना विकल्पना। तामेवाह- अहसंथडेत्यादि, शय्यातरेण य उपाश्रयो दत्तस्तस्मिन् यो यथावस्तृतः प्रथमभङ्गरूपः संस्तारकः[स]सङ्ग्रहीतव्यस्तदभावे पार्श्वन कृतः, तस्याप्यभावे ऊर्ध्वकृत एवंक्रमेण यतनया ग्रहणं कर्त्तव्यं यदि पुनर्विपर्यासेन गृह्णाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः ॥ ३३८६ ॥
अंतोवस्सय बाहिं, निवेसणा वाडसाहिए गामे । खेत्तंतो अन्नगामा, खेत्तबहिं वा अवोच्चत्थं ॥ ३३८७ ॥ एवमन्तरुपाश्रयस्य यदि संस्तारकं फलकरूपं न लभते तथा बहिरुपाश्रयस्य तथैव
गाथा ३३८५-३३९१
कारणे ऋतुबद्धे फलकग्रहणविधिः
१३४६ (B)
For Private and Personal Use Only