________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा कारणे देशादिलक्षणे ऋतुबद्धे काले तृणानि गृहीतानि भवन्ति तथा ऋतुबद्ध एव काले चिक्खल्लादिभिः कार्यैः, आदिशब्दात् प्राणसंसक्ति-हरितकायपरिग्रहः फलकान्यपि गृह्णाति ॥ ३३८४॥
व्यवहारसूत्रम् अष्टम
उद्देशकः
तत्र यतनामाह
१३४६ (A)
अझुसिरमविद्धमफुडिय अगरुय अणिसट्ठवीणगहणेण । आया संजम गुरुगा, सेसाणं संजमे दोसा ॥ ३३८५ ॥
अझुषिरो झुषिररहितो अविद्धो वेधरहितो अस्फुटितो अराजितोऽगुरुको गुरुभाररहितोनिसृष्टः प्रातिहारिकः, एतेषां च पञ्चानां पदानां द्वात्रिंशत् भङ्गाः, ते च प्रागिव प्रस्तारतः स्वयं ज्ञातव्याः । अत्र यः प्रथमभङ्गः सोऽनुज्ञातस्तत्र दोषाभावात् , अयं लघुकः शेषदोषविनिमुक्तश्च। ततो यथा वीणालघुत्वात् दक्षिणहस्तेन सुखं विवक्षितस्थानं नीयते एवमेषोऽपि। तथा चाह- वीणाग्रहणेन यत्र तत्र वा नीयते इति वाक्यशेषः, शेषा एकत्रिंशत् भङ्गा नानुज्ञाताः । तत्र गुरुके आत्मविराधना संयमविराधना च, तत्र प्रायश्चित्तं चतुर्गुरुकम, संयम
गाथा ३३८५-३३९१
कारणे ऋतुबद्धे फलकग्रहणविधिः
१३४६ (A)
For Private and Personal Use Only