________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-14 सूत्रम् अष्टम उद्देशकः १३४७ (A)
ग्रहीतव्यम्। तत्राप्यलाभे तेनैव क्रमेण निवेशनादानेतव्यः, तत्राऽप्यसति वाटकात्, तत्राप्यलाभे साहीतः, तत्राप्यसति दूरादपि ग्राममध्यादानेतव्यः, ग्राममध्येऽप्यसति क्षेत्रान्तस्तत्क्षेत्रमध्यभागात् अन्यग्रामादानेतव्यः, तत्राप्यसति क्षेत्राद्वहिष्ठोऽप्यानेयः । एवमविपर्यस्तमानयनं कर्त्तव्यं, यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः ॥ ३३८७॥
सम्प्रत्यानयने यतनामाहसुत्तं च अत्थं च दुवे वि काउं, भिक्खं अडंतो उ दुए वि एसे । लाभे सइ एति दुवे वि घेत्तुं, लाभासती एग दुए व हावे ॥ ३३८८ ॥
सूत्रं च अर्थं च द्वावपि कृत्वा भिक्षामटन् द्वावप्येषयेत् गवेषयेत्, तद्यथा- भिक्षां संस्तारकं च। तत्र लाभे सति समर्थो द्वावपि गृहीत्वा [ एति ]प्रत्यागच्छति, लाभासति भिक्षां गतस्य संस्तारकलाभाऽभावे एकं सूत्रमर्थो वा यदि वा द्वावपि हापयति संस्तारकगवेषणेन ॥ ३३८८॥
दुल्लभे सेजसंथारे, उउबद्धम्मि कारणे । मग्गणम्मि विही एसो, भणितो खेत्तकालतो ॥ ३३८९॥
गाथा ३३८५-३३९१
कारणे ऋतुबद्धे फलकग्रहणविधिः
१३४७ (A)
For Private and Personal Use Only