________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम उद्देशकः १३४५ (A
अन्यस्तत्र संस्तारके प्राणदयार्थं निषीदति[गृह्यते]हस्तो वा तत्र क्रियते। अत्र भावना प्रागेव कृता, एतैः कारणैर्यथोक्तरूप: संस्तारकः [गृह्यते] ऋतुबद्धे काले निष्कारणं देशादिकारण-मन्तरेणाऽग्लाने अग्लानस्य तृणमयसंस्तारकग्रहणे त एव पूर्वोक्ता दोषा विकल्पो विकल्प-दोषश्च। अत्र विकल्पग्रहणेन कल्पप्रकल्पावपि सूचितौ ॥ ३३८१ ।।
तेषां व्याख्यानमाहअत्थरणवजितो ऊ, कप्पो पकप्पो उ होइ पट्टदुगं । तिप्पभिई तु विकप्पो, अकारणेणं तणाभोगो ॥ ३३८२॥
आस्तरणवर्जितः कल्प: किमुक्तं भवति? यज्जिनकल्पिका अनवस्तृते रात्रावुक्कुडुकास्तिष्ठन्ति एष कल्प इत्यभिधीयते, यत् पुनः पट्टद्विकं भवति संस्तारोत्तरपट्टयोरुपरि यत् सुप्यते इत्यर्थः एष भवति प्रकल्पः । यानि पुनस्त्रिप्रभृतीनि संस्तारके प्रस्तारयति एष विकल्पः। यच्च अकारणे कारणमन्तरेण तृणानां भोगः क्रियते एषोऽपि विकल्पः ॥ ३३८२।।। १. 'कप्पो पुण होति उपट्टदुगंति' पाठः छन्दानुसारी भवति इति ला. पृ.३२१॥
गाथा ३३७८-३३८४ | कारणे संस्तारकग्रहणे
यतना
१३४५ (A)
For Private and Personal Use Only