________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३४४ (B)
www.kobatirth.org
वा न सन्ति तदा [असति ] झुसिराण्यपि शाल्यादिपलालमयान्यानेतव्यानि ॥ ३३७९ ॥ तद्दिवसं मलियाई, अपरिमिय सयं तुयट्ट जयणाए । उभयट्ठ उट्ठिए ऊ, चंकमणे वेज्जकज्जे वा ॥ ३३८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
,
तद्दिवसं प्रतिदिवस मलितानि तृणान्युत्सार्यन्ते अन्यानि च समानीयन्ते तानि चाऽपरिमितानि गृह्यन्ते यथा समाधिर्भवति तथा सकृत् एकवारं तुयट्टानि प्रस्तारितानि तिष्ठन्ति, तत्र यतनया करणम्, उभयं नाम उच्चार-प्रश्रवणं च तदर्थमुत्थिते ग्लाने उत्तमार्थे वा अन्य निषीदति, किं कारणम् ? इति चेत् प्राणिदयार्थम्, अन्यथा झुषिरभावतस्तत्रागन्तुकाः प्राणास्तृणान्युपलीयेरन् स च तावन्निषीदति यावत् स तत्र प्रत्यागच्छति । एवं चङ् क्रमणार्थमभ्युत्थिते प्रवातार्थं वा बहिर्निर्गते वैद्यकार्ये वा बहिर्नीते यावत् स प्रत्यानय तावदन्यो निषीदति, तस्मिन्नागते स उत्तिष्ठति; अथवा स गुरुणामपि पूज्य इति तस्मिन् पूर्वोक्तकारणैरुत्थिते तत्रान्यस्य निषदनं न कल्पते तेषां तृणानामुपरि हस्तः कर्त्तव्यः । एतदेवाह
अन्नो निसिज्ज तर्हि, पाणदयट्ठाए तत्थ हत्थो वा । निक्कारणमगिलाणे, दोसा ते चेव य विकप्पो ॥ ३३८१ ॥
For Private and Personal Use Only
****
गाथा १३३७८-३३८४ कारणे संस्तारकग्रहणे
यतना
१३४४ (B)