________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम
उद्देशकः १३४४ (A)
अंगुटुपव्वमेत्ता, जिणाण थेराण होइ संडासो । भूमीए विरल्लेउं, अवणित्तु पमज्जए भूमिं ॥ ३३७८ ॥
अङ्गष्टपर्वमात्राणि अङ्गष्टपर्वपरिमितमुष्टिप्रमाणानि जिनानां जिनकल्पिकानां स्थविराणां स्थविरकल्पिकानां भवन्ति, तैश्च तृणैः संस्तारक आस्तीर्यमाणस्तावद्भवति यावत् संडासः, * तानि च भूमौ विरल्य शयनार्थं विरलीकृत्य भूमिप्रमार्जनसमये अपनीय भूमिं प्रमार्जयति॥ * ३३७८॥
सम्प्रति 'गिलाणे उत्तमढे' य इति व्याख्यानार्थमाहगेलन उत्तमढे, उस्सग्गेणं तु वत्थसंथारो। असतीए अझुसिराइं, खराऽसतीए उ झुसिरा वि ॥ ३३७९ ॥
यो नाम ग्लानो यो वा प्रतिपन्नोत्तमार्थः कृतानशनप्रत्याख्यानः, तस्मिन् द्वयेऽपि | संस्तारकग्रहणे संस्तारक उत्सर्गतो वस्त्ररूपः क्रियते, तस्य कोमलतया समाधिभावात्, असति अविद्यमाने वस्त्ररूपे संस्तारके अझुषिराणि कुश-वल्ककप्रभृतीनि मृग्यन्ते। अथ तानि खराणि यदि |
१३४४ (A)
गाथा ३३७८-३३८४
कारणे
यतना
१. पोरमेत्ता-ला.॥ २. वच्चक-मु.पु.प्रे.॥
For Private and Personal Use Only