________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम
उद्देशकः १४६९ (A
उद्दिष्टा ये वर्गाः- सप्तसप्तकिकादयः, तद्दिवसा मूलदिनसंयुताः सप्तादिदिनसम्मिश्राः क्रियन्ते, तदनन्तरं द्विधा छिन्नाः अर्धीक्रियन्त इति भावः, ततः मूलेन उद्दिष्टवर्गमूलेन सप्तादिलक्षणेन सङ्गण्यन्ते, सङ्गणिताः प्रतिमासु दत्तीनां मानं परिमाणं भवति। तद्यथासप्तसप्तकवर्गदिवसा एकोनपञ्चाशत् ४९, ते मूलदिनैः सप्तभिर्युताः क्रियन्ते जाताः षट्पञ्चाशत् ५६, ते अर्धीक्रियन्ते, जाता अष्टाविंशति:२८, सा मूलेन सप्तकेन गुण्यते आगतं षण्णवतं शतम् १९६ । तथा अष्टाष्टकवर्गदिवसा: चतुःषष्टिः६४, ते मूलदिनैः अष्टभिः सम्मिश्यन्ते जाता द्वासप्ततिः७२, तस्या अर्द्ध क्रियते जाता षट्त्रिंशत् ३६, सा मूलेनाष्टकेन गुण्यते आगते द्वे शते अष्टाशीते २८८। एवं नवनवकि कायां दशदशकि कायां च यथोक्तं भिक्षापरिमाणमानेतव्यम्॥ ३७६६॥
अत्रैव करणान्तरमाहगच्छुत्तर संवग्गे, उत्तरहीणम्मि पक्खिवे आदि ।
अंतिमधणमादिजुयं, गच्छद्धगुणं तु सव्वधणं॥ ३७६७॥ १. लाडनूसंस्करणे इतः पूर्वम् एका गाथा अधिका अस्ति, सा चैवम्पदगयसु वेयसुत्तरसमाहयं दलियमादिणा सहियं। गच्छगुणं पडिमाण भिक्खामाणं मुणेयव्वं ॥ ३७८७ ॥ अस्य छाया- पदगतेषु वा एषु उत्तरसमहतं दलिकं आदिना सहितम्। गच्छगुणं प्रतिमानां भिक्षामानं मुणितव्यम्॥ |
गाथा ३७६२-३७६७ भिक्षुप्रतिमायां भिक्षासंख्या
१४६९ (A)
For Private and Personal Use Only