SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् | नवम उद्देशकः १४६९ (B) गच्छ उत्तरेणं संवय॑ते स्म संवर्गः, गुणित इत्यर्थः, तस्मिन् उत्तरेण हीने कृते आदि प्रक्षिपेत्, तत अन्तिमधनमागच्छति, तदन्तिमधनमादियुतं क्रियते तदनन्तरं गच्छार्द्धगुणं ततः सर्वधनमागच्छति। तत्र सप्तसप्तकिकायां सप्त आदिः, सप्त उत्तरम् सप्त गच्छः, ततः सप्तकलक्षणो गच्छ उत्तरेण सप्तकलक्षणेन गुण्यते जाता एकोनपञ्चाशत् ४९, सा उत्तरेण सप्तकेन हीना क्रियते, कृत्वा च पुनरादिना सप्तकेनैव युता कर्त्तव्या, इदं करणमन्यत्रापि व्यापकं तत एवमुक्तम्, अन्यथाऽत्रोत्तरहानौ आदिप्रक्षेपे च न कश्चिद् विशेषः,तस्या एव एकोनपञ्चाशतो भावात्, एतद् अन्तिमधनं सप्तमे सप्तके भिक्षापरिमाणमित्यर्थः । एतद् आदिना सप्तकेन युतं क्रियते जाता षट्पञ्चाशत्५६, सा गच्छार्द्धन गुण्यते, अत्र गच्छः सप्तकः, स . विषमत्वादड़ न प्रयच्छति ततो गुण्यो राशिः षट्पञ्चाशल्लक्षणोऽर्धीक्रियते जाता अष्टाविंशति:२८, भिक्षुप्रतिमायां सा परिपूर्णेन सप्तकलक्षणेन गच्छेन गुण्यते जातं षण्णवतं शतम् १९६ । अष्टाष्टकिकायामष्टक भिक्षासंख्या आदिः,अष्टक उत्तरम्, अष्टको गच्छः। तत्राष्टकलक्षणो गच्छ उत्तरेणाष्टकेन गुण्यते जाता ४|१४६९ (B) चतुःषष्टिः६४, सा उत्तरहीना आदियुता क्रियते तथापि सैव चतुःषष्टिः६४, एतद् अष्टमेऽष्टके गाथा ३७६२-३७६७ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy