________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
नवम
उद्देशकः
१४६८ (B)
षट्, सप्तमे सप्त। एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे च सप्तके द्रष्टव्यम्। एष आदेशः सिंहविक्रमसन्निभः यथा सिंहो गत्वा पृष्ठतः प्रलोकयते, एवमेषोऽपि सप्तके सप्तके पुनर्मूलतः परावर्त्तते ॥ ३७६४ ॥ गतः कालच्छेदः, सम्प्रति भिक्षापरिमाणमाहछन्नउयं भिक्खसयं१९६, अट्ठासीया य दो सया२८८ होति। पुंचुत्तरा य चउरो४०५, अद्धच्छट्ठा सया५५० चेव ॥ ३७६५॥
सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवतं शतम्१९६, अष्टाष्टकिकायामष्टाशीते द्वे शते२८८ भिक्षाणाम्। नवनवकिकायां पञ्चोत्तराणि चत्वारि शतानि४०५, दशदशकिकायामर्द्धषष्ठानि शतानि५५० भिक्षाणामिति ॥ ३७६५ ॥
सम्प्रत्यस्यैव भिक्षापरिमाणस्याऽऽनयनाय करणमाहउद्दिट्ठवग्गदिवसा, मूलदिणसंजुया दुहा छिन्ना । मूलेणं संगुणिया, माणं दत्तीण पडिमासु ॥ ३७६६ ॥
गाथा ३७६२-३७६७ भिक्षुप्रतिमायां भिक्षासंख्या
१४६८ (B)
For Private and Personal Use Only