________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम उद्देशकः १४६७ (A)
अहसुत्त सुत्तदेसा, कप्पो, उ विधीए मग्गनाणादी । तच्चं तु भवे तत्थं, सम्मं जं अपरितंतेण ॥ ३७५८ ॥ फासिय जोगतिगेणं, पालियमविरहि सोहितेमेव । तीरियमंतं पाविय, किट्टिय गुरुकहण, जिणमाऽऽणा ॥ ३७५९ ॥
यथासूत्रमिति सूत्रादेशात्। यथाकल्पमित्यत्र कल्पो विधिः । यथामार्गमित्यत्र मार्गो | ज्ञानादि। यथातच्चमित्यत्र तच्चं नाम तथ्यम्। यथा सम्यगिति सम्यक् नाम यदपरिताम्यता करणम् ॥ स्पर्शिता योगत्रिकेण सेविता। पालिता अविराधिता। शोभिताप्येवमेव, अविराधनेनैवेत्यर्थः । तीरिता अन्तं प्रापिता। कीर्त्तिता गुरूणां कथनतः आज्ञा जिनस्य तीर्थकृतः, द्वितीया षष्ठ्यर्थे प्राकृतत्वात् ॥ ३७६० ॥
पडिमाओ पुव्वभणिया, पडिवज्जइ को ? ति संघयणमादी। नवरं पुण नाणत्तं, कालच्छेए य भिक्खासु ॥ ३७६० ॥ प्रतिमाः भिक्षुप्रतिमाः पूर्वम् आचारदशासु भणिताः ताः कः प्रतिपद्यते ? तत आह- |
सूत्र ४०
गा. ३७५६-३७६१ | भिक्षुप्रतिमा
विधिः
|१४६७ (A)
For Private and Personal Use Only