________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् नवम उद्देशकः
१४६६ (B)
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
सप्त सप्तका दिनानां यस्याः सा सप्तसप्तकिका सप्तकशब्दककारस्य मकार: प्राकृतत्वात्। णं इति वाक्यालङ्कारे। भिक्षुप्रतिमा एकोनपञ्चाशता रात्रिन्दिवैरेकेन षण्णवतेन भिक्षाशतेन यथासूत्रं सूत्रानतिक्रमेण यावत्करणात् “अहाकप्पं अहामग्गं अहातच्चं अहासम्म फासिया पालिया (सोहिया) तीरिया किट्टिया (आणाए) अभिपालिया भवति" इति परिग्रहः । तत्र 'यथाकल्पं' यथाविधि सूत्रोक्तविध्यनतिक्रमेणेत्यर्थः । 'यथामार्ग' ज्ञान-दर्शनचारित्राणामविराधनेन "अहातच्चं" ति यथातथ्यमेकान्ततः सूत्रानुसारेणापादितसत्यम्। अहासम्म यथासम्यक् त्रिविधेनापि योगेनापरिताम्यता सम्यक्करणम्, स्पर्शिता सेविता। पालिता विराधनारक्षणतः । अत एव शोधिता अतीचारलेशेनाप्यकलङ्कनात्। तीरिता तीरं नीता पर्यन्तं नीता इत्यर्थः। कीर्त्तिता आचार्याणां कथिता यथा- 'प्रतिमा मया समाप्ता'। आज्ञया तीर्थकरोपदेशेन अभिपालिता भवति।
एवमष्टाष्टकिका-नवनवकिका-दशदशकिकासूत्राण्यपि भावनीयानि, विशेषस्तु पाठसिद्धः | ॥ एष सूत्रचतुष्टयसक्षेपार्थः ॥
सूत्र ४०
गा.
३७५६-३७६१ भिक्षुप्रतिमा
विधिः
|१४६६ (B)
+
For Private and Personal Use Only