________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः |
प्रायश्चित्तं लघुको मासः, झुषिरं गृह्णतश्चत्वारो लघुकाः, अपरिशाटिमपि गृह्णतश्चत्वारो लघुकाः, न केवलं प्रायश्चित्तं किं त्वाज्ञादयश्च दोषाः । तथा यद्यग्निना स ध्याम्यते तदापि प्रायश्चित्तं चत्वारो लघुकाः, व्याक्षेपेण वा स्तेनैरपहृते चतुर्लघुकम्। अपरिशाटौ ध्यामिते हृते वा मासलघु । ततोऽन्यं संस्तारकं मृगयमाणानां सूत्रार्थपरिमन्थः । तथा तस्मिन् संस्तारके ये प्राणजातय | आगन्तुकास्तदुद्भवा वा तान् सङ्गट्टयति परितापयति अपद्रावयति च, ततस्तन्निष्पन्नं तस्य । प्रायश्चित्तमित्येष गाथार्थः ॥ ३३६९ ॥
साम्प्रतमेनामेव भाष्यकृत् विवृणोतिपरिसाडि अपरिसाडी, दुविहो संथारतो समासेण ।
गाथा परिसाडी य झुसिरेयर, एत्तो वोच्छं अपरिसाडिं ॥ ३३७०॥
३३६८-३३७२
संस्तारकद्विविधः समासेन सङ्क्षपेण संस्तारकः । तद्यथा परिशाटिरपरिशाटिश्च, तत्र स्वरूपादिः परिशाटिर्द्विधा झुषिरः इतरश्च, इतरो नाम अझुषिरः । अत ऊर्ध्वमपरिशाटिं वक्ष्ये ॥ ३३७०॥ |
४१३४१ (A) प्रतिज्ञातमेव करोति
10
For Private and Personal Use Only