________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम उद्देशकः
१४६१ (B)
अत्रापि भङ्गचतुष्टयम्, तस्य कृतं तस्य निष्ठितम्१, तस्य कृतमतस्य निष्ठितम्र, अतस्य कृतं तस्य निष्ठितम् ३, अतस्य कृतमतस्य निष्ठितम् ४, । अत्र कृतं-छिन्नं, निष्ठितंपाकादिकरणतो निष्ठां नीतम्। तत्र प्रथमभङ्गे सर्वथा न कल्पते, चतुर्थस्तु भङ्ग एकान्तशुद्धः । द्वितीयभङ्गमधिकृत्य पूर्वार्द्धमाह-संयतहेतोः संयतनिमित्तं छिन्नमात्मार्थम् उपस्कृतं निष्ठां नीतं तत् कल्पते। तृतीयभङ्गमधिकृत्याह-आत्मार्थं छिन्नमपि श्रमणार्थं निष्ठितमकल्प्यम् ॥ ३७३९ ॥
सम्प्रति बीजान्युदकं चाधिकृत्याहबीयाणि व वावेज्जा, अगडं व खणेज संजयट्ठाए । तेसि परिभोगकाले, समणाणं तहि कहं भणियं? ॥ ३७४०॥
बीजानि शाल्यादिसत्कानि वपेत्, अवटं च खानयेत् संयतार्थम्, तेषां परिभोगकाले तत्र श्रमणानां कथं भणितं कल्प्यमकल्प्यं वा? ॥ ३७४०॥
गाथा ३७३४-३७४०
वल्लीवृक्षयोः कृतनिष्ठितादिस्वरूपम्
|१४६१ (B)
सूरिराह
For Private and Personal Use Only