________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहारसूत्रम् नवम
उद्देशकः १४६१ (A)
काममनुमन्यामहे स वृक्षः श्रमणार्थम् आरोपितस्तथाप्यसौ कर्म न भवति। यतो यत् कर्मलक्षणं खलु तीर्थकरगणधरैरुक्तं तदिह 'ई' पादपूरणे न पश्यामि ॥ ३७३६ ॥
किं तत् कर्मलक्षणम् ? अत आहसच्चित्तभावविकलीकयम्मि दव्वम्मि मग्गणा होइ। का मग्गणा उ दव्वे, सचेयणे फासुभोईणं?॥ ३७३८ ॥
यत् सचित्तभावविकलीकृतम्-अचित्तीकृतं द्रव्यं तत्र प्रासुकभोजिनां मार्गणा भवति, तत आधाकर्मिकचिन्ताऽपि तत्रैव युक्ता, नान्यत्र। सचेतने तु द्रव्ये का मार्गणा ? नैव | काचित् सचित्ततया तस्य ग्रहणासम्भवात्, ततो न तदपेक्षया आधाकर्मिकत्वमिति ॥ ३७३८ ॥
तदेवमारोपितरूपकृतनिष्ठितविषये कल्प्याऽकल्प्यविधिरुक्तः, सम्प्रति छिन्नरूपकृतनिष्ठितविषये तमाह
संजयहेउं छिन्नं, अत्तट्ठोवक्खडं तु तं कप्पे। अत्तट्ठा छिन्नं पि हु, समणट्ठा निट्ठियमकप्पं ॥ ३७३९॥
܀܀܀܀܀܀܀܀
गाथा ३७३४-३७४०
वल्ली
वृक्षयोः | कृतनिष्ठिता
दिस्वरूपम्
|१४६१ (A)
For Private and Personal Use Only