SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहारसूत्रम् नवम उद्देश: १४६० (B) ܀܀܀܀܀܀ www.kobatirth.org तस्स कडनिट्ठियादी, चउरो भंगे विभावइत्ताणं । विसमेसु जाण विसमं, नियमा उ समो समग्गहणे ॥ ३७३६ ॥ तस्य कृतं तस्य निष्ठितमिति प्रथमो भङ्गः १, तस्य कृतमतस्य निष्ठितमिति द्वितीयः २, अतस्य कृतं तस्य निष्ठितमिति तृतीय: ३, अतस्य कृतमतस्य निष्ठितमिति चतुर्थ:४, तत्र तस्य संयतस्य निमित्तं कृतम् आरोपितं वृक्षादि तथा तस्यैव संयतस्य निमित्तं निष्ठितं निष्ठां नीतम्, अचित्तीकृतमित्यर्थः, एष प्रथमभङ्गार्थः । एवं शेषाणामपि भङ्गानामर्थः परिभावनीयः । तत्र तस्य कृतं तस्य निष्ठितमित्यादीन् चतुरो भङ्गान् विभाव्य 'विषमयो: ' प्रथमतृतीययोर्भङ्गयोर्गृह्णतो 'विषमम्' असंयमं जानीयात्, तन्निमित्तं निष्ठानयनात् । समयोः द्वितीयचतुर्थयोर्भङ्गयोर्ग्रहणे ‘समं' संयमं जानीयात्, अतन्निमित्तं निष्ठितत्वात्॥ ३७३५ ॥ पर आह- ननु श्रमणार्थं स आरोपितस्ततः कथं द्वितीये भङ्गे कल्पते ? सूरिराहकामं सो समणट्ठा, वुत्तो तह वि य न होइ सो कम्मं । जं कम्मलक्खणं खलु, इह इं वुत्तं न पस्सामि ॥ ३७३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गाथा | ३७३४-३७४० वल्लीवृक्षयोः | कृतनिष्ठितादिस्वरूपम् १४६० (B) ܀܀܀܀܀܀܀܀
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy