________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम
उद्देशकः १४५९ (B)
साहूणं वा न कप्पंति, सुत्तमाहु निरत्थयं। गेलन्नऽद्धाण ओमेसु, गहणं तेसि देसियं ॥ ३७३२ ॥
केचिदाहः-सूत्रद्वयमिदं निरर्थकम्, यतः साधनामाम्राणि सचित्तत्वान्न कल्पन्ते। आचार्य आह-तेषाम् आम्रफलानां ग्लानत्वे अध्वनि शेषभिक्षाया अलाभे अवमौदर्ये च ग्रहणं देशितं | कथितं पूर्वमहर्षिभिः, अतो न निरर्थकमिति ॥ ३७३२ ॥
अविरिक्क सारिपिंडो, विरिक्का वि य सारिदिट्ट न वि कप्पे। अदिट्ठसारिएणं, कप्पंती ताहे घेत्तुं जे॥ ३७३३ ॥ 'अविरिक्तानि' अविभक्तानि फलानि सागारिकपिण्डः, ततो न कल्पन्ते।। विरिक्तान्यपि च सागारिकेण दृष्टानि न कल्पते। ततो अदृष्टानि सागारिकेण ग्रहीतुं | कल्पन्ते। "जे" इति पादपूरणे॥ ३७३३ ॥
उपसंहारमाह
गाथा ३७२६-३७३३
वल्लीवृक्षयोः अवग्रहादिः
१४५९ (B)
१. न वै -मु.पु.प्रे.॥
For Private and Personal Use Only