________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः
१४५७ (A)
܀܀܀܀܀܀
www.kobatirth.org
अविरिक्तः अविभक्तीकृतः खलु भवति पिण्डः सागारिकपिण्डः । स एव विरेचितः पृथक्कृतो भवत्यपिण्डः, सागारिकपिण्डो न भवतीति भावः । यद्येवं तर्हि स ग्राह्यस्तत आहविरिक्तेऽपि ध्रुवा भद्रक-प्रान्तादिका दोषाः ॥ ३७२१ ॥ तस्मात् तत्रापि सागारिकसत्का असागारिकेण सह संस्तृतास्ताः खलु न कल्पन्ते, यास्तु असंस्तृताः सूतस्य [च] सूपकारस्य सम्बन्धितया जातास्ताः कल्पन्ते ॥ ३७२२ ॥
तदेवमोषधिसूत्रद्वयं भावितम् । अधुनाऽऽम्रफलसूत्रद्वयं भावयति
वल्ली वा रुक्खो वा, सागारियसंतिओ भएज परं ।
तेसि परिभोगकाले, समणाण तहिं कहं भणियं ? ॥ ३७२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
| ३७१८-३७२५ वल्लभी
वल्ली वा सागारिकसत्का वृक्षो वा सागारिकसम्बन्धी परं परस्यावग्रहं भजेत तत्र वक्षादीतेषां वल्ली-वृक्षाणां फलपरिभोगकाले श्रमणानां कथं भणितं किं कल्पते किं वा न कल्पते ? इति । एष गाथासङ्क्षेपार्थः ॥ ३७२३ ॥
नामवग्रहः
साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतो वृक्ष-वल्लीव्याख्यानमाह
For Private and Personal Use Only
१४५७ (A)